वांछित मन्त्र चुनें
देवता: वेनः ऋषि: वेनः छन्द: त्रिष्टुप् स्वर: धैवतः

जा॒नन्तो॑ रू॒पम॑कृपन्त॒ विप्रा॑ मृ॒गस्य॒ घोषं॑ महि॒षस्य॒ हि ग्मन् । ऋ॒तेन॒ यन्तो॒ अधि॒ सिन्धु॑मस्थुर्वि॒दद्ग॑न्ध॒र्वो अ॒मृता॑नि॒ नाम॑ ॥

अंग्रेज़ी लिप्यंतरण

jānanto rūpam akṛpanta viprā mṛgasya ghoṣam mahiṣasya hi gman | ṛtena yanto adhi sindhum asthur vidad gandharvo amṛtāni nāma ||

पद पाठ

जा॒नन्तः॑ । रू॒पम् । अ॒कृ॒प॒न्त॒ । विप्राः॑ । मृ॒गस्य॑ । घोष॑म् । म॒हि॒षस्य॑ । हि । ग्मन् । ऋ॒तेन॑ । यन्तः॑ । अधि॑ । सिन्धु॑म् । अ॒स्थुः॒ । वि॒दत् । ग॒न्ध॒र्वः । अ॒मृता॑नि । नाम॑ ॥ १०.१२३.४

ऋग्वेद » मण्डल:10» सूक्त:123» मन्त्र:4 | अष्टक:8» अध्याय:7» वर्ग:7» मन्त्र:4 | मण्डल:10» अनुवाक:10» मन्त्र:4


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (विप्राः) मेधावी स्तोताजन (रूपं-जानन्तः) परमात्मा के स्वरूप को जानते हुए (अकृपन्त) उसकी स्तुति करते हैं (महिषस्य) महान् (मृगस्य) प्रापणीय प्राप्त करने योग्य (घोषं ग्मन् हि) ज्ञानघोष को प्राप्त होते हैं (ऋतेन यन्तः) ज्ञानमार्ग से जाते हुए (सिन्धुम्) उस आनन्दसिन्धु को (अधिस्थुः) अधिष्ठित होते हैं (गन्धर्वः) वह वेदवाणी का धारक (अमृतानि) अमृतरूप (नाम) नामों को (विदत्) प्राप्त करता है ॥४॥
भावार्थभाषाः - मेधावी विद्वान् परमात्मा के स्वरूप को जानते हुए उसकी स्तुति करते हैं, उसके ज्ञान की घोषणा करनेवाले वेद को प्राप्त होते हैं और यथार्थ आचरण करते हुए आनन्दसिन्धु में स्थिर होते हैं। वेदवाणी को धारण करता हुआ मनुष्य उसके अमृत नामों को प्राप्त करता है ॥४॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (विप्राः) मेधाविनः स्तोतारः (रूपं जानन्तः-अकृपन्त) तस्य परमात्मनः स्वरूपं जानन्तः सन्तस्तं स्तुवन्ति अत्र कृप धातुः अर्चनार्थे यथा “कृपा अर्चतिकर्मा” [निघ० ३।१४] (महिषस्य मृगस्य घोषं ग्मन् हि) तस्य महतः “महिषो महन्नाम”  [निघ० ३।८] प्रापणीयस्य “मार्ष्टि गतिकर्मा” [निघ० २।१४] यतो ज्ञानघोषं ज्ञानघोषणां-प्राप्नुवन्ति (ऋतेन यन्तः सिन्धुम्-अधिस्थुः) ज्ञानमार्गेण गच्छन्तस्तमानन्दसिन्धुमधितिष्ठन्ति (गन्धर्वः-अमृतानि नाम विदत्) स वेदवाचः-धारकोऽमृतरूपाणि नामानि विन्दते प्राप्नोति ॥४॥